(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.80. अध्यायः 080
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरंप्रति भीष्मेण मित्रामित्रलक्षणकथनम्॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

युधिष्ठिर उवाच। 12-80-0x(5545)(67902)
यदप्यल्पतरं कर्म तदप्येकेन दुष्करम्।
पुरुषेणासहायेन किमु राज्यं पितामह॥ 12-80-1(67903)
किंशीलः किंसमाचारो राज्ञो यः सचिवो भवेत्।
कीदृशे विश्वसेद्राजा कीदृशे न च विश्वसेत्॥ 12-80-2(67904)
भीष्म उवाच। 12-80-3x(5546)
चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत।
सहार्थो भजः निश्च सहजः कृत्रिमस्तथा॥ 12-80-3(67905)
धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः।
यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत्॥ 12-80-4(67906)
यो यस्यार्थो न रोचेत न तं तस्य प्रकाशयेत।
`मित्राणां प्रकृतिर्नास्ति त्वमित्राणां च भारत।
उपकाराद्भवेन्मित्रमपकाराद्भवेदरिः॥ 12-80-5(67907)
यस्यैव हि मनुष्यस्य नरो मरणमृच्छति।
तस्य पर्यागते काले पुनर्जीवितुमिच्छति॥ 12-80-6(67908)
धर्माधर्मेण राजानश्चरन्ति विजिगीषवः।
चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथाऽपरौ।
सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः॥ 12-80-7(67909)
न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे।
प्रमादिनं हि राजानं लोकाः परिभवन्त्युत॥ 12-80-8(67910)
असाधुः साधुतामेति साधुर्भवति दारुणः।
अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति॥ 12-80-9(67911)
अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत्।
तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत्॥ 12-80-10(67912)
एकान्तेन हि विश्वासः कृत्स्नो कर्मार्थनाशकः।
अविश्वासश्च सर्वत्र मृत्युर्नापि विशिष्यते॥ 12-80-11(67913)
अकालमृत्युर्विश्वासोऽविश्वसन्हि विपद्यते।
यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति॥ 12-80-12(67914)
तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित्।
एषा नीतिगतिस्तात लक्ष्मीश्चैषा सनातनी॥ 12-80-13(67915)
यं मन्येत ममाभावादिममर्थागमः स्पृशेत्।
नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्बुधाः॥ 12-80-14(67916)
यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति।
न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः॥ 12-80-15(67917)
तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति।
यमेवंलक्षणं विद्यात्तममित्रं विदुर्बुधाः॥ 12-80-16(67918)
यस्तु वृद्ध्या न तप्येत क्षये दीनतरो भवेत्।
एतदुत्तममित्रस्य निमित्तमभिचक्षते॥ 12-80-17(67919)
यन्मन्येत ममाभावादस्याभावो भवेदिति।
तस्मिन्कुर्वीत विश्वासं यथा पितरी वै तथा॥ 12-80-18(67920)
तं शक्त्या वर्तमानं च सर्वतः परिबृंहयेत्।
नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु॥ 12-80-19(67921)
क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम्।
ये यस्य क्षयमिच्छन्ति ते तस्य रिपवः स्मृताः॥ 12-80-20(67922)
व्यसनान्नित्यभीतो यः समृद्ध्या यो न दुष्यति।
यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते॥ 12-80-21(67923)
रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः।
कुलीनः शीलसंपन्नः स ते स्यात्प्रत्यनन्तरः॥ 12-80-22(67924)
मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंस्यवान्।
यो मानितोऽमानितो वा न सन्तुष्येत्कथंचन॥ 12-80-23(67925)
ऋत्विग्वा यदि वाऽऽचार्यः सखा वाऽत्यंतसत्कृतः।
गृहे वसेदमात्यस्ते स स्यात्परमपूजितः॥ 12-80-24(67926)
संविद्याः परमं मित्रं प्रकृतिं चार्थधर्मयोः।
विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा॥ 12-80-25(67927)
नैव द्वौ न त्रयः कार्या न मृष्येरन्परस्परम्।
एकार्थे हेतुभूतानां भेदो भवति सर्वदा॥ 12-80-26(67928)
कीर्तिप्रधानो यस्त स्याद्यश्च स्यात्समये स्थितः।
समर्थान्यश्च न द्वेष्टि नानर्थान्कुरुते च यः॥ 12-80-27(67929)
यो न कामाद्भयाल्लोभात्क्रोधाद्वा धर्ममुत्सृजेत्।
दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः॥ 12-80-28(67930)
कुलीनः शीलसंपन्नस्तितिक्षुरविकत्थनः।
शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः॥ 12-80-29(67931)
एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः।
पूजिताः संबिभक्ताश्च सुसहायाः स्वनुष्ठिताः॥ 12-80-30(67932)
कृत्स्नप्रेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु।
युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्त्युत॥ 12-80-31(67933)
एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा।
अनुतिष्ठन्ति चैवार्थमाचक्षाणाः परस्परम्॥ 12-80-32(67934)
ज्ञातिभ्यो बिभियाश्चैव मृत्योरिव यतस्तदा।
उपराजेव राजर्धि ज्ञातिर्न सहते सदा॥ 12-80-33(67935)
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः।
नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति॥ 12-80-34(67936)
अज्ञातयोऽप्यसुखदा ज्ञातयोऽपि सुखावहाः।
अज्ञातिमन्तं पुरुषं परे चाभिभवन्त्युत॥ 12-80-35(67937)
निकृतस्य नरैरन्यैर्ज्ञातिरेव परायणम्।
नान्यो निकारं सहते ज्ञातिर्ज्ञातेः कदाचन॥ 12-80-36(67938)
आत्मानमेव जानाति निकृतं बान्धवैपरि।
तेषु सन्ति गुणाश्चैव नैर्गुण्यं चैव लक्ष्यते॥ 12-80-37(67939)
नाज्ञातिरनुगृह्णाति नाज्ञातिर्वृद्धिमश्नुते।
उभयं ज्ञातिवर्गेषु दृश्यते साध्वसाधु च॥ 12-80-38(67940)
संमानयेत्पूजयेच्च वाचा नित्यं च कर्मणा।
कुर्याच्च प्रियमेतेभ्यो नाप्रियं किंचिद चरेत्॥ 12-80-39(67941)
विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा
न हि दोषो गुणो वेति निरूप्यस्तेषु दृश्यते॥ 12-80-40(67942)
अस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः।
अमित्राः संप्रसीदन्ति ततो मित्रं भवन्त्यपि॥ 12-80-41(67943)
य एवं वर्तते नित्यं ज्ञातिसंबन्धिमण्डले।
मित्रेष्वमित्रे मध्यस्थे चिरं यशसि तिष्ठति॥ ॥ 12-80-42(67944)

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अशीतितमोऽध्यायः॥ 80॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-80-3 सहार्थः अयं शत्रुरुभाथ्यामुन्मूलनीयः अस्य राज्यं उभाभ्यां विभज्य ग्राह्यमितिं पणपूर्वं कृतः। भजमानः पितृपैतामहक्रमागतः सहजः मातृष्वस्त्रीयादिः कृत्रिमो धनादिना आवर्जितः॥ 12-80-7 सर्वे पञ्चापि प्रत्यक्षं कार्यमुद्दिश्य मन्त्रितमपि दुष्टामात्यनिग्रहादिकं कार्यं पञ्चानामपि समक्षं न कुर्यादित्यर्थः॥ 12-80-14 ममाभावात् मयि मृते अर्थागमः इमं स्पृशेत् इति यं मन्येत तस्माच्छङ्कितव्यमिति संबन्धः॥ 12-80-18 यत् मित्रं कर्तृ॥ 12-80-28 प्रत्यनन्तरः प्रतिनिधिः प्रधान हतियावत्॥ 12-80-30 स्यनुष्ठिताः सुप्तुभक्तिं कर्तव्यं येषां ते॥ 12-80-31 कृत्स्नमप्रतिकञ्चुकं यथा रक्षत्तथा विनिक्षिप्ता अधिकृताः। प्रतिरूपेष्वनुरूपेषु कर्मस्वायव्ययसकलनादिषु। कार्येषु परामिभवादिषु॥ 12-80-33 उपराजा समीभवर्ती सामन्तः॥ 12-80-36 निकृतस्य लङ्घितस्य लङ्घितस्य॥ 12-80-37 बान्धवैः संबन्धिभिर्निकृते कस्मिंश्चित्पुरुषे तज्ज्ञातिः आत्मानमेव निकृतं जानाति। तेषु ज्ञातिषु॥ 12-80-41 तथा मित्रीभवन्त्यपीति झ. पाठः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.